फलश्रुति | Phalashruti | Vishnu Sahasranamam | Vishnu Mantra | Vishnu Bhajan | Vishnu Songs

Duration: 7:41

Description

Jai Shri Vishnu 🙏
**Phalashruti of Vishnu Sahasranamam** describes the divine benefits of chanting the thousand names of Lord Vishnu. Found at the end of the sacred Vishnu Sahasranamam, this section explains the spiritual rewards (*phal*) received by devotees who listen to or chant the holy names with faith and devotion.

🌸 **Meaning & Devotional Essence**
Phalashruti teaches that remembering Lord Vishnu through His sacred names brings peace, protection, and prosperity. The divine vibrations of Vishnu Sahasranamam purify the mind, remove sins, and guide devotees toward righteousness and spiritual liberation. Chanting these names with devotion invokes Lord Narayana’s grace and divine protection in life.

🌿 **Spiritual Benefits**
• Removes fear, sorrow, and negativity
• Brings peace, prosperity, and protection
• Strengthens faith and spiritual awareness
• Purifies mind and surroundings
• Helps in achieving success and inner harmony

🎧 Listen to the **Phalashruti of Vishnu Sahasranamam** and experience divine blessings, peace, and spiritual upliftment through the sacred names of Lord Vishnu.

🔔 If this Vishnu Bhajan inspires you, please **Subscribe**, Like, and share. Comment **Om Namo Narayanaya** to spread divine positivity and devotion.
https://www.youtube.com/@UC19K7RslL0CBoTC_BrTiJiw

May Lord Vishnu bless you with peace, protection, prosperity, and spiritual wisdom.
Om Namo Narayanaya 🕉️🙏

Track - Phalashruti
Album - Vishnu Sahastranaam
Artists - Pandit Sanjeev Abhyankar
Language - Sanskrit
Music - Shaarang Dev
Label - Times Music Spiritual

Phalashruti Slokas
Sanskrit Lyrics

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः॥२॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम्॥४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते॥११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे॥१३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥

सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥

योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥२१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥

न ते यान्ति पराभवम ॐ नम इति।

अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।

व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।

पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥

ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥ (3 times)
श्रीरामनाम वरानन ॐ नम इति।

ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।

सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय संभवामि युगे युगे॥३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥

कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥३३॥

#VishnuSahasranamam #Phalashruti #OmNamoNarayanaya

Tags

Phalashruti Vishnu Sahasranamam Vishnu Sahasranamam Phalashruti Om Namo Narayanaya Vishnu Mantra Vishnu Bhajan Vishnu Devotional Song Narayana Mantra Vishnu Spiritual Chant Vishnu Prayer Song Vishnu Sahasranamam Benefits Vishnu Meditation Mantra Lord Vishnu Bhakti Song Vishnu Stotram Hindu Devotional Vishnu Vishnu Sahasranam Chant Vishnu Blessings Song Devotional Vishnu Music Narayana Bhajan Vishnu Protection Mantra Bhakti Song Vishnu